|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.11. अध्यायः 011
Mahabharata - Shanti Parva - Chapter Topics
अर्जुनेन युधिष्ठिरंप्रति गार्हस्थ्यस्य श्रैष्ठ्योपपादनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
अर्जुन उवाच। 12-11-0x(5628)(69053)
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
तापसैः सह संवादं शक्रस्य भरतर्षभ॥ 12-11-1(69054)
`शक्यं पुनररण्येषु सुखमेतेन जीवितुम्।'
केचिद्गृहान्परित्यज्य वनमभ्यागमन्द्विजाः।
अजातश्मश्रवो मन्दाः कुले जाताः प्रवव्रजुः॥ 12-11-2(69055)
धर्मोऽयमिति मन्वानाः समृद्धा धर्मचारिणः।
त्यक्त्वा भ्रातॄन्पितॄंश्चैव तानिन्द्रोऽन्वकृपायत॥ 12-11-3(69056)
स तान्बभाषे मघवान्पक्षीभूत्वा हिरण्मयः।
सुदुष्करं मनुष्यैस्तु यत्कृतं विघसाशिभिः॥ 12-11-4(69057)
पुण्यं भवति कर्मैषां प्रशस्तं चैव जीवितम्।
सिद्धार्थास्ते गतिं मुख्यां प्राप्ताः कर्मपरायणाः॥ 12-11-5(69058)
ऋषय ऊचुः। 12-11-6x(5629)
अहो बतायं शकुनिर्विघसाशान्प्रशंसति।
अस्मान्नूनमयं शास्ति वयं च विघसाशिनः॥ 12-11-6(69059)
शकुनिरुवाच। 12-11-7x(5630)
नाहं युष्मान्प्रशंसामि पङ्कदिग्धान्रजस्वलान्।
उच्छिष्टभोजिनो मन्दानन्ये वै विघसाशिनः॥ 12-11-7(69060)
ऋषय ऊचुः। 12-11-8x(5631)
इदं श्रेयः परमिति वयमेवममंस्महि।
शकुने ब्रूहि यच्छ्रेयो वयं ते श्रद्दधामहे॥ 12-11-8(69061)
शकुनिरुवाच। 12-11-9x(5632)
यदि मां नाभिशङ्कध्वं विभज्यात्मानमात्मना।
ततोऽहं वः प्रवक्ष्यामि याथातथ्यं हितं वचः॥ 12-11-9(69062)
ऋषय ऊचुः। 12-11-10x(5633)
शृणुमस्ते वचस्तात पन्थानो विदितास्तव।
नियोगे चैव धर्मात्मन्स्थातुमिच्छाम शाधि नः॥ 12-11-10(69063)
शकुनिरुवाच। 12-11-11x(5634)
चतुष्पदां गौः प्रवरा लोहानां काञ्चनं वरम्।
शब्दानां प्रवरो मन्त्रो ब्राह्मणो द्विपदां वरः॥ 12-11-11(69064)
मन्त्रोऽयं जातकर्मादिर्ब्राह्मणस्य विधीयते।
जीवतोऽपि यथाकालं श्मशाननिधनान्तकः॥ 12-11-12(69065)
कर्माणि वैदिकान्यस्य स्वर्ग्यः पन्थास्त्वनुत्तमः।
अथ सर्वाणि कर्माणि मन्त्रसिद्धानि चक्षते।
आम्नायदृढवादीनि तथा सिद्धिरिहेष्यते॥ 12-11-13(69066)
मासार्धमासा ऋतव आदित्यशशितारकम्।
ग्रसन्ते कर्म भूतानि तदिदं कर्मशंसिनाम्॥ 12-11-14(69067)
सिद्धिक्षेत्रमिदं पुण्यमयमेवाश्रमो महान्॥ 12-11-15(69068)
अथ ये कर्म निन्दन्तो मनुष्याः कापथं गताः।
मूढानामर्थहीनानां तेषामेनस्तु विद्यते॥ 12-11-16(69069)
देववंशान्पितृवंशान्ब्रह्मवंशांश्च शाश्चतान्।
संत्यज्य मूढा वर्तन्ते ततो यान्त्यशुचीन्पथः॥ 12-11-17(69070)
एतद्वोऽस्तु तपोयुक्तं ददामीत्यृषिचोदितम्।
तस्मात्तदध्यावसतस्तपस्वित्वमिहोच्यते॥ 12-11-18(69071)
देववंशान्ब्रह्मवंशान्पितृवंशांश्च शाश्वतान्।
संविभज्य गुरोश्चर्यां तद्वै दुष्करमुच्यते॥ 12-11-19(69072)
देवा वै दुष्करं कृत्वा विभूतिं परमां गताः।
तस्माद्गार्हस्थ्यमुद्वोढुं दुष्करं प्रब्रवीमि वः॥ 12-11-20(69073)
तपः श्रेष्ठं प्रजानां हि मूलमेतन्न संशयः।
कुटुम्वविधिनाऽनेन यस्मिन्सर्वं प्रतिष्ठितम्॥ 12-11-21(69074)
एतद्विदुस्तपो विप्रा द्वन्द्वातीता विमत्सराः।
एतस्माद्वनमध्ये तु लोकेषु तप उच्यते॥ 12-11-22(69075)
दुराधर्षं पदं चैव गच्छन्ति विघसाशिनः।
सायंप्रातर्विभज्यान्नं स्वकुटुम्बे यथाविधि॥ 12-11-23(69076)
दत्त्वाऽतिथिभ्यो देवेभ्यः पितृभ्यः स्वजनाय च।
अवशिष्टानि येऽश्नन्ति तानाहुर्विघसाशिनः॥ 12-11-24(69077)
तस्मात्स्वधर्ममास्थाय सुव्रताः सत्यवादिनः।
लोकस्य गुरवो भूत्वा ते भवन्त्यनुपस्कृताः॥ 12-11-25(69078)
त्रिदिवं प्राप्य शक्रस्य स्वर्गलोके विमत्सराः।
वसन्ति शाश्वतान्वर्षाञ्जना दुष्करकारिणः॥ 12-11-26(69079)
अर्जुन उवाच। 12-11-27x(5635)
ततस्ते तद्वचः श्रुत्वा धर्मार्थसहितं हितम्।
उत्सृज्य नास्तिकमतिं गार्हस्थ्यं धर्ममाश्रिताः॥ 12-11-27(69080)
तस्मात्त्वमपि सर्वज्ञ धैर्यमालम्ब्य शाश्वतम्।
प्रशाधि पृथिवीं कृत्स्नां हतामित्रां नरोत्तम॥ ॥ 12-11-28(69081)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकादशोऽध्यायः॥ 11॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-11-4 विघसाशिभिः महायज्ञावशिष्टभोजिभिः॥ 12-11-6 शास्ति ज्ञापयति। विघसं शीर्णतृणपर्णफलादिकं तददनशीलास्तु वयमेवातो विघसाशिनिः श्रेयांसः स्म इति मेनिरे इत्यर्थः॥ 12-11-7 पङ्कदिग्धान्रजस्वलानित्यागन्तुकस्वाभाविकदोषयुक्तत्वमुक्तं क्रमेण। उच्छिष्ठभोजिन इति। प्रायेण शीर्णतृणमर्णफलानि मृगकीटपक्ष्युच्छिष्टानि भवन्ति तद्भोजिनः॥ 12-11-8 ते तव वच इति शेषः॥ 12-11-10 पन्थानः श्रेयोमार्गाः॥ 12-11-12 मन्त्रो मन्त्रोक्तसंस्कारः॥ 12-11-15 ईहन्ते सर्वभूतानि तदिदं कर्मसंज्ञितमिति झ. पाठः॥ 12-11-22 एतस्मात् गार्हस्थ्यात् अनन्तरं वनमध्ये तप उच्यत इत्यन्वयः॥ 12-11-25 अनुपस्कृताः निःसंशयाः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|